१७

फलीकृताँ स्तण्डुलाँ स्त्रैधं विभज्यान्वाहार्यपचने भर्जनार्थं कपालमुपधाय तस्मिँ स्तृतीयं तण्डुलानां धाना भर्जन्ति १
व्याख्यातः सँ स्कारः २ पिष्टाना-मावृता धानाः पि ँषन्ति ३
समानमा कपालोपधानात् ४ दक्षिणार्धे गार्ह-पत्यस्य षट् कपालान्युपधायान्वाहार्यपचने धानार्थं कपालमुपदधाति ५
नानापात्रेषु हवी ँषि संवपति ६ उत्पुनाति ७
पिष्टेष्वप आनीयाभिवान्यायै दुग्धे मन्थमानयति ८ अर्धपात्रं करोति ९
पिष्टानि संयुत्येक्षुशलाकया मन्थं प्रसव्यं दक्षिणाभिमुखोऽनन्वारभमाण उपमन्थति १०
शलाकास्थं करोति ११ पुरोडाशमधिश्रित्यान्वाहार्यपचने धाना भर्जन्ति १२
ता अत्रैव विदह्यमानाः परिशेरत आ हविषामुद्वासनात् १३
तत उत्तरं परिग्राहं परिगृह्णाति १४
समानमाज्यानां ग्रहणात् १५
दक्षिणार्धे गार्हपत्यस्याज्यानि गृह्णाति १६
सर्वाणि चतुर्गृहीतानि १७
तान्यत्रैव परिशेरत आ हविषामासादनात् १८
समानमा बर्हिषः स्तरणात् १९
अग्रे बर्हिर्गृहीत्वा प्रसव्यमग्निं त्रिः स्तृणन् पर्येति २०
त्रिरस्तृणन् प्रतिपर्येति अया विष्ठा जनयन् कर्वराणि इत्यूर्ध्वं धारयमाणः २१
स प्रस्तरो भवति २२
१७