१६

पितृयज्ञस्य तन्त्रं प्रक्रमयति १
दक्षिणपूर्वेणान्वाहार्यपचनं यजमानमात्रीं चतुः-स्रक्तिं वेदिं करोति २
तस्या दिक्षु स्रक्तयो भवन्त्यवान्तरदेशेषु मध्यानि ३
अथैनाँ सर्वतः परिश्रित्योत्तराँ स्रक्तिं प्रति द्वारं करोति ४ उद्धननान्तां कृत्वान्वाहार्यपचनादग्निमाहृत्य पध्यतः समादधाति ५
एष एतस्मि ँस्तन्त्र आहवनीयो भवति ६
तत्र ये देवप्रवादा मन्त्रा उभयवत् ते सन्नम्येरन् देवानां पितॄणां परिषूतमसि ॥ कर्मणे वां देवेभ्यः पितृभ्यः शकेयम् इति ७
यथाप्रकृत्येव वर्तेरन्नित्यपरम् ८
समानमा बर्हिष आहरणात् ९
समूलं बर्हिर्दात्युपमूलं वा १०
द्रा घीयानिध्म इध्माद्भवति द्रा घीयो बर्हिषो बर्हिः ११
समानमा निर्वपणात् १२
दक्षिणतः शकटात् प्राचीनावीती निर्वपत्युत्तरतो वा यज्ञोपवीती १३
सोमाय पितृमते पुरोडाशँ षट्कपालं निर्वपति पितृभ्यो बर्हिषद्भ्यो धानाः पितृभ्योऽग्निष्वात्तेभ्योऽभिवान्यायै दुग्धे मन्थम् १४
यवमयान्येतानि हवी ँषि भवन्ति १५
प्रोक्षण्युद्रे केण यवानाद्रा र्न्कृत्वावहन्ति १६
समानमा फलीकरणात् १७
१६