आमिक्षयोर्दक्षिणाद्विहारादिति १
समानमा निर्वपणात् २
आग्नेयमष्टा-कपालमिति
नित्यानि पञ्च सञ्चराणि निरुप्यैन्द्रा ग्नमेकादशकपालमैन्द्रं चरुं
वैश्वकर्मणमेककपालमिति ३
समानमा स्रुच्यादाघारात् ४
अग्ने वेर्होत्रं वेर्दूत्यम् ॥ ऊर्ध्वो अध्वरायास्थात् ॥ अवतां
त्वा द्यावापृथिवी यज्ञे अस्मिन् ॥ अव त्वं द्यावापृथिवी यज्ञे अस्मिन् ॥
स्विष्टकृदिन्द्रा य देवेभ्यो भव ॥ जुषाणो अस्य हविषो घृतस्य वीहि स्वाहा
इति स्रुच्यमाघारमाघारयति ५
एककपालस्यावृतैककपालँ
हुत्वोत्तरैश्चतुर्भिर्मासनामभिरभिजुहोति
सहसे स्वाहा ॥ सहस्याय स्वाहा ॥ तपसे स्वाहा ॥ तपस्याय स्वाहा इति ६
इदावत्सरीणाँ स्वस्तिमाशासे इतीडाया आशीःषु यजमानो जपति ७
प्रथमजो वत्सो दक्षिणा ८
इदावत्सरीणाँ स्वस्तिमाशास्ते दिव्यं
धामाशास्ते इति सूक्तवाके होताशास्ते ९
सिद्धमिष्टिः
सन्तिष्ठते १०
१५