१४

क्रैडिनस्य तन्त्रं प्रक्रमयति १
पराचीनरात्रेऽग्निहोत्र्! याश्चाभिवान्यायाश्च वत्सौ बध्नन्ति २
पुरा प्रातरग्निहोत्रात् पूर्णदर्व्येण चरन्ति ३
दर्व्यामुपस्तीर्य शरनिष्कासस्य दर्वीं पूरयित्वाप्रमृष्टं च दर्व्युदायुवनमन्ववदधाति ४
अभिघार्य गार्हपत्ये जुहोति ५
पूर्णा दर्वि परा पत इत्येतामनुद्रुत्योत्तरया जुहोति ६
ऋषभमाहूयर्षभस्य रवते जुहोति ७
यद्यृषभो न रूयाद् ब्रह्मा ब्रूयात् जुहुधि इति ८
यस्य रवते जुहोति तं ब्रह्मणे ददाति ९
मरुद्भ्यः क्रीडिभ्यः पुरोडाशँ सप्तकपालं निर्वपति साकँ सूर्येणोद्यता १०
साकँ रश्मिभिः प्रचरन्तीत्येकेषाम् ११
सिद्धमिष्टिः सन्तिष्ठते १२ उदित आदित्येऽभिवान्यां दोहयित्वा मरुद्भ्यः स्वतवद्भ्यः पुरोडाशँ सप्तकपालं निर्वपति १३
सिद्धमिष्टिः सन्तिष्ठते १४ महाह-विषां तन्त्रं प्रक्रमयति १५
तेषां वरुणप्रघासैः कल्पो व्याख्यातोऽन्यत्रावभृथात् १६
१४