१३

अथैतं चरुमुद्वास्य तस्य शरं प्रज्ञातं निधाय त्रीनोदनानुद्धरति १ अनिष्कासितां कुम्भीं निदधाति । अप्रमृष्टं च दर्व्युदायुवनम् २
उद्धृतानोदनान् पच्छो गायत्र्! योत्पूयालङ्कृत्यासादयति ३
निशायां गृहमेधीयेन चरन्ति ४
नात्र सामिधेन्यो भवन्ति नाघारौ न प्रयाजाः ५ वेदेनाहवनीयमुपक्षिप्य सम्प्रेष्यति अग्नीदग्निं त्रिः सम्मृड्ढि इति ६ अग्निमेवाग्नीध्रस्त्रिः सम्मार्ष्टि ७
प्रवरं प्रवृत्याज्यभागाभ्यां प्रचर्य सम्प्रेष्यति मरुद्भ्यो गृहमेधिभ्योऽनुब्रूहि इति ८
जुह्वामुपस्तीर्य सर्वेषामोदनानां द्विर्द्विश्चतुरवदानस्यावद्यति त्रिस्त्रिः पञ्चा-वदानस्य ९ अभिघार्यात्याक्रम्याश्राव्याह मरुतो गृहमेधिनो यज इति १०
वषट्कृते जुहोति ११
सर्वेषामोदनानाँ स्विष्टकृते सकृत्सकृदवद्यति १२ सर्वेषामिडामुपहूय तामिडां प्राश्नन्त्यृत्विजः १३
उमात्येभ्य ओदनानुपहरन्ति यावन्तो हविरुच्छिष्टाशा भवन्ति १४
अतोऽन्येऽपि प्राश्नीयुर्यदि प्रभूत ओदनः स्यात् १५
प्रतिवेशात् पत्न्यश्नाति गृहमेधीयाद्वा १६
इडान्तो गृहमेधीयः सन्तिष्ठते १७ आञ्जतेऽभ्यञ्जते १८
अनु वत्सान् वासयन्ति १९
सुहिता एताँ रात्रिं वसन्ति प्रतीता अनवर्तिमुखिनः २०
प्रतिवेशा अपि पचन्ते २१
गा अभिघ्नते २२
१३