ततश्चतुर्षु मासेषु द्व्यहँ साकमेधैर्यजते १
अग्नयेऽनीकवते
पुरोडाशमष्टाकपालं निर्वपति साकँ
सूर्येणोद्यता २
साकँ रश्मिभिः प्रचरन्तीत्येकेषाम् ३
सिद्ध-मिष्टिः सन्तिष्ठते ४
मरुद्भ्यः सान्तपनेभ्यो मध्यन्दिने चरुम् ५
सिद्धमिष्टिः सन्तिष्ठते ६
गृहमेधीयस्य तन्त्रं प्रक्रमयति ७
समानमा
वत्सानामपाकरणात् ८
अयजुष्केण गृहमेधीयाय सर्वान्
वत्सानपाकरोति ९
वेदं कृत्वा वेदिं करोति १०
नात्रेध्माबर्हिर्भवति । न प्रणीताः प्रणयति ११
अग्नीन् परिस्तीर्य
हस्ताववनिज्य पात्राणि प्रयुज्योलपराजीः स्तीर्त्वा पवित्रे कृत्वा
सम्प्रेष्यति यजमान वाचं यच्छ इति १२
वाग्यतः पात्राणि
सम्मृशति १३
मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम् १४
पवित्रे सर्वा गा दोहयित्वानुत्पूते पयस्यनुत्पूय तण्डुलानावपति १५
गार्हपत्ये वान्वाहार्यपचने वा प्रतिवेशमोदनं पचति १६
तत
उत्तरं परिग्राहं परिगृह्णाति १७
समानमा सम्प्रैषात् १८
नात्रेध्माबर्हिः प्रचोदयति १९
समानमाज्यानां ग्रहणात् २०
ध्रुवायामेव गृह्णाति २१
प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य वेदिं प्रोक्ष्य
प्रोक्षण्यवशेषं निनीयाग्निमभिमन्त्र्यान्तर्वेदि
ध्रुवाँ सादयित्वा स्रुवँ सादयति । एषासदत् इति मन्त्रँ सन्नमति २२
विष्ण्वसि वैष्णवं धामासि प्राजापत्यम् इत्याज्यम-भिमन्त्रयते २३
तस्यै न
प्रस्तरं प्रहरति । एवँ स्तीर्ण एव सान्तपनस्य बर्हिषि गृहमेधीयेन
चरन्तीत्येकेषाम् २४
१२