दक्षिणं वाजिनं भक्षयन्ति १
वाजिनां भक्षोऽवतु वाजोऽस्मान् रेतः सिक्तममृतं
बलाय । स न इन्द्रि यं द्र विणं दधातु मा रिषाम वाजिनं भक्षयन्तः ॥ तस्य त
उपहूतस्योपहूतो भक्षयामि इत्युत्तरम् २
उभौ कस्तम्भ्याँ स्रुचौ सादयतः ३
अध्वर्युरेव पत्नीः संयाजयति ४
उभौ पाशुकानि समिष्टयजूँ षि जुहुतः ५
सिद्धमिष्टिः सन्तिष्ठते ६
तुषैश्च वारुण्या निष्कासेन
चावभृथमवयन्ति ७
तत्र कृत्स्नोऽवभृथः क्रियते
यदन्यत् साम्नोऽध्वमन्त्रादृजीषभक्षादिति ८
तुषा ऋजीषस्य
स्थानं प्रतियन्ति ९
निष्कास एककपालस्य १०
अपि वा वारुणमेककपालं
निर्वपेत् ११
तस्य निष्कासेन समवदाय प्रचरेत् १२
अपि वा न
सौमिकोऽवभृथः १३
तूष्णीमेव तुषनिष्कासमप्सूपवपेत् १४
अथान्ये वाससी परिधायोदेतः १५
काममेते वाससी यस्मै कामयेयातां तस्मै
दद्याताम् १६
प्रत्येत्य निवर्तयते १७
व्याख्यातं निवर्तनं
तथा व्रतचर्या १८
११