१०

उपरमति प्रतिप्रस्थाता १
अध्वर्युर्हवी ँषि प्रयच्छति २
ऐन्द्रा ग्नेन प्रचर्यो-परमत्यध्वर्युः ३
मारुत्या प्रतिप्रस्थाता प्रचरति ४ पूर्वेणावदानेन मेषीँ सहा-वद्यत्युत्तरेण सह शमीपर्णकरीराणि ५
मारुत्या प्रचर्योपरमति प्रतिप्रस्थाता ६
वारुण्याध्वर्युः प्रचरति ७ पूर्वेणावदानेन मेषँ सहावद्यत्युत्तरेण सह शमी-पर्णकरीराणि ८
एककपालस्यावृतैककपालँ हुत्वोत्तरैश्चतुर्भिर्मासनामभिरभि-जुहोति नभसे स्वाहा ॥ नभस्याय स्वाहा ॥ इषाय स्वाहा ॥ ऊर्जाय स्वाहा इति ९
पृथक् स्विष्टकृते जुहुतः । सहेषामवद्यतः १०
परिवत्सरीणाँ स्वस्तिमाशासे इतीडाया आशीःषु यजमानो जपति ११
प्रवया इवर्षभो दक्षिणा १२ पृषदाज्येन नवानूयाजान् यजतः १३
परिवत्सरीणाँ स्वस्ति-माशास्ते दिव्यं धामाशास्ते इति सूक्तवाके होताशास्ते १४
उभौ वाजिनेन प्रचरतः १५
आ त्वा विशन्त्विन्दवः ॥ आ वल्गा धमनीनाँ रसेन मे रसं पृण । तस्य ते वाजिभिर्भक्षं कृतस्योपहूतस्योपहूतो भक्षयामि इति १६
१०