ततः सम्प्रेष्यति अग्निभ्याँ समिध्यमानाभ्यामनुब्रूहि इति १
एवमेव सम्मार्जने
द्विवत् प्रैषँ सन्नमति २
सम्मृष्ट उत्तरोऽग्निर्भवत्यसम्मृष्टो दक्षिणः ३
अथ
प्रतिप्रस्थाता पत्नीं पृच्छति कति ते जाराः इति ४
यज्जारँ सन्तं न
प्रब्रूयात् प्रियं ज्ञातिँ रुन्ध्यात् । असौ मे जारः इति
निर्दिशेत् । निर्दिश्यैवैनं वरुणपाशेन ग्राहयतीति विज्ञायते ५
यावत आचष्टे तान् वरुणो गृह्णातु इत्युक्त्वा पत्नीमुदानयति
प्रघास्यान् हवामहे इति ६
ऐषीके शूर्प उपस्तीर्य
करम्भ-पात्राण्योप्याभिघार्य शीर्षन्नधिनिधाय पुरस्तात्प्रत्यङ्
तिष्ठन् दक्षिणेऽग्नौ यजमानः सह पत्न्या करम्भपात्राणि जुहोति ७
यजमानः पुरोनुवाक्यामन्वाह मो षू ण इन्द्र इति ८
उभौ पत्नी च
याज्यां यद् ग्रामे यदरण्ये इति ९
अपि वाध्वर्युरेव जुहुयात् १०
अन्वारभेयातामितरौ ११
अक्रन् कर्म कर्मकृतः इति विपरायन्तौ जपतः १२
ततो दक्षिणमग्निँ सम्मार्ष्टि १३
अध्वर्युरेव प्रवरं प्रवृणीते १४
उभौ
नवनव प्रयाजान् यजतः १५
आज्यभागाभ्यां प्रचर्य १६
९