उभौ पाशुकान्याज्यानि गृह्णीतः १
एतावन्नाना । पृषदाज्यधान्योरौपभृतानां
मन्त्राणामेकेनाज्यं गृहीत्वा महीनां पयोऽसि इति द्विर्दधि गृह्णीतः
२
औपभृतानां द्वाभ्यामन्तत आज्यम् ३
इति वै खलु यदि श्रावण्यां यजेत ४
अथ
यद्याषाढ्याँ संसृष्टमेव गृह्णीयातां यथा पशुबन्धे ५
समानमा
हविषामुद्वासनात् ६
ऐन्द्रा ग्नपर्यन्तानि
हवी ँष्युद्वास्यामिक्षयोर्मेषप्रतिकृती अवधत्तः ७
मारुत्यां
मेषमवदधाति वारुण्यां मेषीम् ८
ताभ्यां परःशतानि परःसहस्राणि
वा शमीपर्णकरीराण्युपवपतः ९
करम्भपात्रेष्वावपति १०
एककपालस्यावृतैककपालमुद्वास्योत्तरस्यां
वेद्याँ हवी ँष्यासादयति ११
दक्षिणस्यां मारुतीं करम्भपात्राणि च १२
आमिक्षयोर्मेषप्रतिकृती विपरिहरतः १३
मारुत्यां मेषीमवदधाति
वारुण्यां मेषम् १४
उभौ निर्मन्थ्याभ्यां चरत इत्येकम् ।
अध्वर्युरित्यपरम् १५
८