०८

उभौ पाशुकान्याज्यानि गृह्णीतः १
एतावन्नाना । पृषदाज्यधान्योरौपभृतानां मन्त्राणामेकेनाज्यं गृहीत्वा महीनां पयोऽसि इति द्विर्दधि गृह्णीतः २
औपभृतानां द्वाभ्यामन्तत आज्यम् ३
इति वै खलु यदि श्रावण्यां यजेत ४
अथ यद्याषाढ्याँ संसृष्टमेव गृह्णीयातां यथा पशुबन्धे ५
समानमा हविषामुद्वासनात् ६
ऐन्द्रा ग्नपर्यन्तानि हवी ँष्युद्वास्यामिक्षयोर्मेषप्रतिकृती अवधत्तः ७
मारुत्यां मेषमवदधाति वारुण्यां मेषीम् ८
ताभ्यां परःशतानि परःसहस्राणि वा शमीपर्णकरीराण्युपवपतः ९
करम्भपात्रेष्वावपति १० एककपालस्यावृतैककपालमुद्वास्योत्तरस्यां वेद्याँ हवी ँष्यासादयति ११
दक्षिणस्यां मारुतीं करम्भपात्राणि च १२ आमिक्षयोर्मेषप्रतिकृती विपरिहरतः १३
मारुत्यां मेषीमवदधाति वारुण्यां मेषम् १४
उभौ निर्मन्थ्याभ्यां चरत इत्येकम् । अध्वर्युरित्यपरम् १५