०७

ऐन्द्रा ग्नपर्यन्तानि हवी ँष्यधिश्रित्यामपेषाणां यवानामीषदुपतप्तानां वा प्रतिपूरुषं पत्नी करम्भपात्राणि करोति यावन्तो यजमानस्य पुत्रपौत्रा भवन्त्येकमतिरिक्तम् १
स्त्रीभ्योऽपि प्रतिकरोति २
मेषप्रतिकृती कुरुतः ३ मेषमध्वर्युर्मेषीं प्रतिप्रस्थाता ४
स्त्रियाः स्त्रीव्यञ्जनानि कुरुते पुँ सः पुंव्यञ्जनानि ५
अथैना-वनेडकीभिर्लोमशौ कुरुतः ६
यद्यनेडकीर्न विन्देयातां कुशोर्णा एव निश्ले-षयतः ७
कुम्भीपाक्यौ वा भवतः ८ कायमेककपालमधिश्रित्य हवी ँष्या-प्येभ्यो निनीयाहवनीय इध्मावादीप्य सम्प्रेष्यति अग्निभ्यां प्रणीयमानाभ्याम-नुब्रूहि इति ९
ये के च साधारणाः सम्प्रैषा अध्वर्युरेव तान् ब्रूयात् १०
सहाग्नी प्रणयतः सह प्रणीता हरतः ११
उत्तरस्मिन्नेवाग्नौ प्रणीता आसादयतः १२ उत्तरस्मिन् व्रतं विसृजते १३
तत उत्तरौ परिग्राहौ परिगृह्णीतः १४ समानमा सम्प्रैषात् १५
यथाधिकरणँ सम्प्रैषं नमति १६
समानमाज्यानां ग्रहणात् १७