०६

पूर्वेद्युरग्नी प्रणयत इत्येकम् । अधिश्रित्य हवी ँषीत्यपरम् १
समानमा बर्हिष आहरणात् २
द्वे बर्हिषी आहरतो द्वाविध्मौ ३
समानमा पात्राणां प्रयोजनात् ४
उभौ पात्राणि प्रयुङ्क्तः ५
शमीमय्यः स्रुचो भवन्ति हिरण्मय्यो वा दक्षिणस्य विहारस्य ६
समानमा निर्वपणात् ७ आग्नेयमष्टाकपालमिति नित्यानि पञ्च सञ्चराणि निरुप्यैन्द्रा ग्नमेकादशकपालं निर्वपति ८
तूष्णीं करम्भपात्रेभ्यो यवान् निरुप्य मन्त्रेण मेषप्रतिकृतिभ्यां यवान् निर्वपतः ९
मरुद्भ्यः प्रतिप्रस्थाता वरुणायाध्वर्युः १०
कायमेककपालं निर्वपति ११
समानमा फलीकरणात् १२
सर्वा ँस्तुषानवभृथाय निदधाति १३
मन्त्रेण मेषप्रतिकृतिभ्यां यवेभ्यो भर्जनार्थे कपाले उपधत्तः १४
तयोरीषदुपतप्ता धानाः कुरुतः १५
आव-पन्तावधिश्रयणमन्त्रं जपतः १६ उद्वपन्तावुद्वासनमन्त्रम् १७
भृष्टा धाना अभिघार्योद्वासयतः १८
काल एवालङ्कुरुतः १९
यत्र क्व च हविष्यान् भर्जयेदेवमेव कुर्यात् २०
पिष्टानामावृता धानाः पि ँष्टः २१
आमिक्षाया आवृतामिक्षे कुरुतः २२
वारुणनिष्कासं प्रज्ञातं निदधाति २३