०५

ततश्चतुर्षु मासेषु वरुणप्रघासैर्यजते १
तेषां वैश्वदेवेन कल्पो व्याख्यातः २
विकाराननुक्रमिष्यामः ३
समानमा वत्सानामपाकरणात् ४
मारुत्या आ-मिक्षायै प्रतिप्रस्थाता वत्सानपाकरोति ५
वारुण्या अध्वर्युः ६
अग्रेणाहवनीयं द्वे वेदी कुरुतः । उत्तरामध्वर्युर्दक्षिणां प्रतिप्रस्थाता ७
समे प्राची भवतः । पृथमात्रेण प्रादेशमात्रेण वासम्भिन्ने ८
यदेवाध्वर्युः करोति तत् प्रतिप्रस्थाता करोति ९
अग्रेणापरेण वोत्तरां वेदिं प्रतिप्रस्थाता स्तम्बयजुर्हरति १०
एतेनैवात ऊर्ध्व ँ! सञ्चरते ११
समान उत्करो भवति समान आग्नीध्रः समानो होता समानो ब्रह्मा १२ तत्रैषोऽत्यन्तप्रदेशो यान्युत्तरस्यां कर्माण्यध्वर्युस्तानि कुर्या-द्दक्षिणस्यां प्रतिप्रस्थाता १३
अथैने अनुसम्भिनत्ति १४
दक्षिणायै वेदेरुत्तरस्याः श्रोणेरुपक्रम्य स्फेनोल्लिखत्योत्तरस्या दक्षिणादँ सात् १५
यत् प्रागुत्तरस्मात् परिग्राहात् तत् कृत्वोत्तरस्यां वेद्यामुत्तरवेदिमुपवपति न दक्षिणस्याम् १६
उभयत्र सम्भारनिवपनं भवति १७