ततश्चतुर्षु मासेषु वरुणप्रघासैर्यजते १
तेषां वैश्वदेवेन कल्पो व्याख्यातः
२
विकाराननुक्रमिष्यामः ३
समानमा वत्सानामपाकरणात् ४
मारुत्या आ-मिक्षायै
प्रतिप्रस्थाता वत्सानपाकरोति ५
वारुण्या अध्वर्युः ६
अग्रेणाहवनीयं
द्वे वेदी कुरुतः । उत्तरामध्वर्युर्दक्षिणां प्रतिप्रस्थाता ७
समे
प्राची भवतः । पृथमात्रेण प्रादेशमात्रेण वासम्भिन्ने ८
यदेवाध्वर्युः
करोति तत् प्रतिप्रस्थाता करोति ९
अग्रेणापरेण वोत्तरां वेदिं
प्रतिप्रस्थाता स्तम्बयजुर्हरति १०
एतेनैवात ऊर्ध्व ँ!
सञ्चरते ११
समान उत्करो भवति समान आग्नीध्रः समानो होता समानो ब्रह्मा १२
तत्रैषोऽत्यन्तप्रदेशो यान्युत्तरस्यां कर्माण्यध्वर्युस्तानि
कुर्या-द्दक्षिणस्यां प्रतिप्रस्थाता १३
अथैने
अनुसम्भिनत्ति १४
दक्षिणायै वेदेरुत्तरस्याः
श्रोणेरुपक्रम्य स्फेनोल्लिखत्योत्तरस्या
दक्षिणादँ सात् १५
यत् प्रागुत्तरस्मात् परिग्राहात् तत्
कृत्वोत्तरस्यां वेद्यामुत्तरवेदिमुपवपति न
दक्षिणस्याम् १६
उभयत्र सम्भारनिवपनं भवति १७
५