ऊर्ध्वज्ञुरासीनो होता यजत्यनवानम् १
वाजिनो हुत्वावशिनष्टि २
वाजि-नोद्रे
केण दिशः प्रतियजति यथा पशुबन्धे ३
भक्षं तँ समुपहूय भक्षयन्ति
होताग्रेऽथाध्वर्युरथ ब्रह्माथाग्नीध्रोऽथ यजमानः ४
समशो वा विभज्य ५
सर्व एव मिथः कर्मनामभिः समुपह्वयेरन् ६
असावुपह्वयस्व इत्यामन्त्रणः । उपहूतः इति प्रतिवचनः
७
यन्मे रेतः प्रसिच्यते यन्म आजायते पुनः ।
यद्वा मे प्रतितिष्ठति तेन माममृतं कुरु तेन सुप्रजसं कुरु ॥
तस्य ते वाजिपीतस्योपहूतस्योपहूतो भक्षयामि इति ८
समानमा समिष्टयजुषः ९
पाशुकानि समिष्टयजूँ षि जुहोति १०
सिद्धमिष्टिः सन्तिष्ठते ११
त्रेण्या शलल्या विनीय लौहेन क्षुरेणौदुम्बरेण श्मश्रूणि
वापयित्वोपपक्षौ नि केशान् वर्तयते ऋतमेव परमेष्ठ्यृतं
नात्येति किं चन इति १२
एवमेवोत्तरेणोत्तरेण
मन्त्रेणोत्तरेषु पर्वसु निवर्तयते १३
चतुरो
मासान्न माँ समश्नाति न स्त्रियमु-पैति नोपर्यास्ते जुगुप्सतेऽनृतात्
प्राङ् शेते मध्वश्नाति १४
मध्वशनः स्या-दित्येकम् ।
व्यञ्जनार्थमित्यपरम् १५
ऋत्विये तु
जायामुपेयादित्येकेषाम् १६
एवमेव सर्वेषु चातुर्मास्यान्तरालेषु व्रतं
चरति १७
४