०३

पौष्णँ हुतमनुमन्त्रयते पूष्णोऽहं देवयज्यया पुष्टिमान् पशुमान् भूयासम् इति १
एवमेव सर्वान् पौष्णाननुमन्त्रयते २
आमिक्षया प्रचर्यैककपालं बर्हिषदं कृत्वा जुह्वामुपस्तीर्य सर्वमेककपालमवद्यति ३ अत्रैवाशयमनुपर्यासिच्याभिघार्य स्रुचा प्रतिष्ठितं जुहोति ४
यदि हुतः पर्यावर्तेत प्रत्यादायाभिघार्य पुनर्जुहुयात् ५
वरं दत्त्वा स्रुचा कल्पयति न पाणिनेत्येकेषाम् ६ अथैनं चतुर्भिर्मास-नामभिरभिजुहोति मधवे स्वाहा ॥ माधवाय स्वाहा ॥ शुक्राय स्वाहा ॥ शुचये स्वाहा इति ७
संवत्सरीणाँ स्वस्तिमाशासे इतीडाया आशीःषु यजमानो जपति ८
प्रथमजो वत्सो दक्षिणा ९ पृषदाज्येन नवानूयाजान् यजति १०
संवत्सरीणां स्वस्तिमाशास्ते दिव्यं धामाशास्ते इति सूक्तवाके होताशास्ते ११
प्रहृत्य परिधीन् सम्प्रेष्यति वाजिभ्योऽनुब्रूहि इति १२
जुह्वामुपस्तीर्य चमसे वा बर्हिषि विषिञ्चन् वाजिनमानयति १३
अनभिघार्यात्याक्रम्याश्राव्याह वाजिनो यज इति १४
वषट्कृते विषिच्य-मानया जुहोति १५
अनुवषट्कृते द्वितीयम् १६