०२

समानमा प्रातर्दोहात् १
तप्ते प्रातर्दोहे सायन्दोहमानीय यदा कृतामिक्षा भवत्यथैनां विस्राव्य विवाजिनां कृत्वा द्वयोः पात्रयोव्युद्धृत्य वाजिनस्यैकदेशेनोपसिछ प्रज्ञातं वाजिनशेषं निदधाति २
अधिश्रित्य हवी ँ! ष्याप्येभ्यो निनीय तत उत्तरं परिग्राहं परिगृह्णाति ३
समानमा सम्प्रैषात् ४
आज्येन दध्ना चोदेहि इति सम्प्रैषान्तं नमति ५
समानमाज्यानां ग्रहणात् ६ पाशुकान्याज्यानि गृह्णाति ७
एतावन्नाना ८
पृषदाज्यधान्यामौपभृतानां मन्त्राणां द्वाभ्यामाज्यं गृहीत्वा महीनां पयोऽसि इति द्विर्दधि गृह्णाति ९
औपभृतानामेकेनान्तत आज्यम् १०
इति वै खलु यदि चैत्र्! यां यजेत ११
अथ यदि फाल्गुन्याँ संसृष्टमेव गृह्णीयाद्यथा पशुबन्धे १२ समानमा हविषामुद्वासनात् १३
एककपालमुद्वास्याज्येनाभिपूरयति १४ आविःपृष्ठं करोति १५
भूर्भुवः सुवः इति हवी ँष्यासादयति १६ उत्करे वाजिनम् १७
संवत्सरे पर्यागत एताभिरेवासादयेत् १८
आसाद्य हवी ँ! षि निर्मन्थ्यस्यावृता निर्मन्थ्येन चरति १९
सप्तदश सामिधेन्यो भवन्ति २० समानमा प्रयाजेभ्यः २१
नव प्रयाजान् यजति २२
चतुर्थेचतुर्थ औपृभृतँ समानयते सर्वमन्ततः २३
उपभृतः स्थाने पृषदाज्यमभिघारयति २४
समानमा हविषां प्रदानात् २५
उपाँ शु सावित्रैककपालाभ्यां प्रचरति २६