०१

चातुर्मास्यैर्यक्ष्यमाणः पञ्चहोतारं मनसानुद्रुत्याहवनीये सग्रहं जुहोति १ वैश्वानरं द्वादशकपालं निर्वपति पार्जन्यं चरुम् २
हिरण्यं वैशानरे ददाति । धेनुं पार्जन्ये ३
सिद्धमिष्टिः सन्तिष्ठते ४
सैषान्वारम्भणीयायाः स्थानं प्रत्येति ५
फाल्गुन्यां चैत्र्यां वा प्राचीनप्रवणे वैश्वदेवेन यजते ६
दर्शपूर्णमासीक आहवनीयः स्यादित्येकम् । सौमिक इत्यपरम् ७ यदन्यदुत्तरवेद्या उपवपनात् सर्वं तत् क्रियते ८
आमावास्यं तन्त्रं भवति ९
समानमा वत्सानामपाकरणात् १०
आप्यायध्वमघ्निया विश्वेभ्यो देवेभ्यो भागम् इति गाः प्रस्थापयति ११
समानमा बर्हिष आगरणात् १२
प्रसूमयं बर्हिर्भवति १३
तत् त्रेधा सन्नह्यैकधा पुनः सन्नह्यति १४
एवं त्रयोविँ शतिदारुमिध्मं करोति १५
समानमा पात्राणां प्रयोजनात् १६
पृषदाज्यधानीं द्वितीयामुपभृतं प्रयुनक्ति द्वे आज्यस्थाल्यौ तिस्रश्चरुस्थालीः पालाशं वाजिनपात्रम् १७
समानमा निर्वपणात् १८
आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुँ सावित्रं द्वादशकपालँ सारस्वतं चरुं पौष्णं चरुं मारुतँ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालमिति १९ समानमा फलीकरणात् २०
फलीकृतानां तण्डुलानां विभागमन्त्रेण चरव्यानपोद्धरति २१
सहेतरान् पिनष्टि २२
संयुतानां पिष्टानां पौष्णमपोद्धरति २३