उपनिष्क्रम्य हृदयशूलेन चरन्ति १
शुष्कस्य चार्द्र स्य च सन्धौ
हृदयशूल-मुद्वासयति शुगसि तमभिशोच योऽस्मान्
द्वेष्टि यं च वयं द्विष्मः इति २
धाम्नोधाम्नो राजन् ॥
उदुत्तमं वरुण पाशम् इत्येताभ्यामादित्यमुपस्थाय चा-त्वाले
मार्जयन्ते सुमित्रा न आप ओषधयः सन्तु इति ३
समिधः
कृत्वा-प्रतीक्षमायन्ति ४
एधोऽस्येधिषीमहि इत्याहवनीये समिध आधायोपतिष्ठन्ते अपो
अन्वचारिषम् इति ५
एवं पत्नी गार्हपत्येऽभ्याधायोपतिष्ठते ६
यूपं यजमान
उपतिष्ठते आशासानः सुवीर्यम् इत्येतया ७
सन्तिष्ठते पशुबन्धः ८
एवमेव षट्सुषट्सु मासेषु संवत्सरेसंवत्सरे वा पशुना यजेत ९
नाहिताग्निं पशुनानीजानं संवत्सरोऽतीयात् १०
यद्यतीयादमाँ
सखादः स्यात् ११
अत्यशिता ह वा एतस्याग्नयो भवन्ति य आहिताग्निः
संवत्सरं पशुनानिष्ट्वा माँ सं खादतीति विज्ञायते १२
स यदि भक्षयेदेतया
भक्षयेत्
मनसाग्निभ्यः प्रहिणोमि भक्षं मम वाचा तँ सह भक्ष्यन्तु ।
अप्रमाद्यन्नप्रमत्तश्चरामि शिवेन मनसा सह भक्षयत ॥
इति १३
यद्यादिष्टो भक्षयेदेतं मन्त्रमुक्त्वा भक्षयेदेतं मन्त्रमुक्त्वा
भक्षयेत् १४
२३
इति सप्तमः प्रश्नः