एकादशानूयाजानिष्ट्वा प्रत्याक्रम्य जुह्वाँ स्वरुमक्त्वा जुह्वा स्वरुं
जुहोति द्यां ते धूमो गच्छत्वन्तरिक्षमर्चिः पृथिवीं भस्मना पृणस्व
स्वाहा इति १
समानमा पत्नीसंयाजेभ्यः २
सर्वा जुहूपभृतो वाजवतीभ्यां
व्यूहति ३
सर्वासु स्रुक्षु प्रस्तरमनक्ति ४
सूक्तवाकाय सूक्ता
प्रेष्य इति सम्प्रेष्यति ५
सर्वाः सम्प्रस्रावयति ६
सर्वाः
कस्तम्भ्याँ सादयति ७
जाघन्या पत्नीः संयाजयति ८
आज्येन सोमं
यजति । आज्येन त्वष्टारम् ९
उत्तानाया जाघन्या देवानां
पत्नीभ्योऽवद्यति । नीच्या अग्नये गृहपतये १०
चतुश्चतुरवदानस्य पञ्चकृत्वः पञ्चावदानस्य ११
नात्रोपस्तरणाभिघारणानि भवन्ति १२
उत्तानाया इडाँ समवद्यति नीच्या अग्नीधे १३
जाघनीशेषं पत्न्यध्वर्यवे
ददाति १४
बाहुँ शमित्रे । तँ स ब्राह्मणाय ददाति यद्यब्राह्मणो भवति १५
समानमा समिष्टयजुषः १६
त्रीणि समिष्टयजूँ षि जुहोति यज्ञ यज्ञं गच्छ ॥ एष
ते यज्ञो यज्ञपते ॥ देवा गातुविदः इति १७
अन्तरेण चात्वालोत्करौ १८
२२