२१

मेदस्वती ँहोत्रेऽवान्तरेडामादधाति १
मेदसोपस्तृणाति मेदसादधाति मेदसा-भिघारयति २
उपहूतायामिडायामध्युद्धिँ होत्रे हरति वनिष्ठुमग्नीधे ३
षडवत्तँ सम्पादयति ४
प्राश्नन्ति मार्जयन्ते ५ ततः सम्प्रेष्यति । अग्नीदौ-पयजानङ्गारानाहर । उपयष्टरुपसीद । ब्रह्मन् प्रस्थास्यामः इति सम्प्रैषादिः ६
समानमानूयाजेभ्यः ७
जुहूपभृतावादाय पृषदाज्यं जुह्वाँ समानीया-त्याक्रम्याश्राव्याह देवेभ्यः प्रेष्य इति ८
वषट्कृते जुहोति ९
आश्राव्याश्राव्य प्रेष्य प्रेष्य इत्येवोत्तरेभ्यः सम्प्रेष्यति १० शामित्रादङ्गारानाहृत्याग्नीध्र उत्तरस्यां वेदिश्रोण्यां निवपति ११
प्रतिप्रस्थातैकादश गुदकाण्डानि तिर्यग्विकृत्तानि कृत्वा वसाहोमहवन्याँ समवधायैकैकेनानूयाजानां वषट्कारंवषट्कार-मनूपयजति समुद्रं गच्छ स्वाहा इत्येतैः प्रतिमन्त्रम् १२
अद्भ्यस्त्वौषधीभ्यः इति प्रतिप्रस्थाता बर्हिषि लेपं निमार्ष्टि १३
मनो मे हार्दि यच्छ इत्यात्मानं प्रत्यभिमृशति १४
२१