पार्श्वेन वसाहोमं प्रयौति श्रीरस्यग्निस्त्वा श्रीणातु इति १
अथैनामेतेनैव
पार्श्वेनापिदधाति स्वाहोष्मणोऽव्यथिष्यै इति २
ततः सम्प्रेष्यति इन्द्रा
ग्निभ्यां छागस्य हविषोऽनुब्रूहि इति ३
अत्याक्रम्याश्राव्याह
इन्द्रा ग्निभ्यां छागस्य हविषः प्रेष्य इति ४
याज्याया
अर्धर्चे प्रतिप्रस्थाता वसाहोमं जुहोति घृतं घृतपावानः पिबत इति
५
हुत्वावशिनष्टि ६
वषट्कृते हविर्जुहोति ७
वसाहोमोद्रे केण दिशः प्रतियजति
दिशः स्वाहा ॥ प्रदिशः स्वाहा इत्येतैः प्रतिदिशम् ८
स्वाहा दिग्भ्यो नमो
दिग्भ्यः इति प्राचीनमन्ततो जुहोति ९
अत्र नारिष्ठान् हुत्वा जुह्वा
पृषदाज्यस्य सकृदुपहत्याह वनस्पतयेऽनुब्रूहि इति १०
अत्याक्रम्याश्राव्याह वनस्पतये प्रेष्य
इति ११
वषट्कृते जुहोति १२
अपुनरतिक्रामन् सम्प्रेष्यति अग्नये
स्विष्टकृतेऽनुब्रूहि इति १३
जुह्वामुपभृतं
पर्याहृत्याश्राव्याह अग्नये स्विष्टकृते प्रेष्य इति १४
वषट्कृते जुहोति १५
प्रत्याक्रम्यायतने स्रुचौ सादयित्वा
१६
२०