१९

अपि वा त्रयाणामेव मुख्यानामनुपूर्वमवदाय यथाकाममुत्तरेषामवद्यति १
यूषे मेदोऽवधाय मेदसा जुहूं प्रोर्णोति २
उपरिष्टाद्धिरण्यशकलं निधायाभि-घारयति ३
त्र्यङ्गाणि प्रत्यभिघार्योपभृति त्र्यङ्गाणाँ स्विष्टकृते सकृत्सकृद-वद्यति दक्षिणस्य दोष्णः सव्यायाः श्रोणेर्गुदकाण्डमिति ४
पुरस्तादेव गुदं द्वैधं कृत्वा स्थविमदुपयड्भ्यो निदधाति ५
अणिमत् त्रैधं करोति ६
तस्य मध्यमं जुह्वां द्वैधं कृत्वावदधाति स्थविष्ठमुपभृत्यणिष्ठमिडायां द्वैधं कृत्वा ७
यूषे मेदोऽवधाय मेदसोपभृतं प्रोर्णोति ८ उपरिष्टाद्धिरण्यशकलं निधाय द्विरभिघारयति ९
पात्र्यामिडाँ समवद्यति हृदयाज्जिह्वाया यक्नो वृक्कयो-र्गुदाद्वनिष्ठोः सप्तमात् १०
अत्रैव दक्षिणाँ श्रोणिमध्युद्धिं क्लोमानं प्लीहानं पुरीततं मेद इत्यन्ववधाय यूष्णोपसिच्याभिघारयति ११
यूष्णो वसाहोमं गृह्णाति १२
स्वधितिना धारां प्रयौति १३
सकृच्चतुरवदानस्य द्विः पञ्चा-वदानस्य १४
अभिघार्य यानि चावत्तानि यानि चानवत्तानि शृतं चाशृतं च सर्वं पशुँ सन्निधायाभिमृशति ऐन्द्र ःप्राणो अङ्गेअङ्गे निदेध्यत् इति १५ १९