शृतँ हवी३ःशमितः इति १
शृतम् इति शमिता त्रिः प्रत्याह २
त्रिः
प्रच्युते हृदयमुत्तमं करोति ३
उत्तरतः परीत्य
पृषदाज्येन हृदयमभिघारयति सं ते मनसा मनः सं प्राणेन
प्राणो जुष्टं देवेभ्यः । इन्द्रा ग्निभ्याँ हव्यं घृतवत् स्वाहा इति ४
स्वाहोष्मणोऽव्यथिष्यै इत्यूष्माणमुद्यन्तमभिमन्त्रयते ५
यदि पशुं
विमथ्नीरन्नेवमेवाभिमन्त्रयेत् ६
आज्येन पशुँ
सान्नाय्यवदभिघार्य तथोद्वा-स्यान्तरेण
चात्वालोत्करावन्तरेण यूपं चाहवनीयं च
पशुमत्याहृत्य दक्षिणस्यां वेदिश्रोण्यां पञ्चहोत्रा
सादयति ७
प्लक्षशाखोत्तरबर्हिर्भवति ८
तस्या
मध्यमङ्गानामवद्यति ९
चतसृषूपस्तृणीते
जुहूपभृतोः समवत्तधान्यां पात्र्यां वसाहोमहवन्याँ स्रुचि १०
जुहूपभृतोर्हिरण्यशकलाववधाय सम्प्रेष्यति मनोतायै
हविषोऽवदीयमानस्यानुब्रूहि इति ११
हृदयस्याग्रेऽवद्यति । अथ
जिह्वाया अथ वक्षसोऽथ सव्यस्य दोष्णोऽथ पार्श्वयोरथ यक्नोऽथ
वृक्कयोरथ दक्षिणायाः श्रोणेरथ गुदस्य १२
द्विरेकैकस्यावद्यति १३
१८