पशुपुरोडाशस्य पात्राणि प्रक्षाल्य प्रयुनक्ति यान्यौषधकारितानि भवन्ति १
पवित्रे कृत्वा सम्प्रेष्यति यजमान वाचं यच्छ इति २
वाग्यतः पात्राणि
सम्मृशति ३
व्रीहिमयँ समानदेवतं पशुना पशुपुरोडाशमेकादशकपालं निर्वपति
द्वादशकपालं वा ४
हविष्कृता वाचं विसृज्य पशुं विशास्ति ५
गुदं मा
निर्व्लेषीः । वनिष्ठुं मा निर्व्लेषीः । अध्युद्धिं
क्लोमानं प्लीहानं पुरीततं मेदः समवधातवै इति सम्प्रेष्यति ६
कुम्भ्यां पशुँ श्रपयन्ति ७
शूलेन हृदयं निहत्य
यजुरुत्पूताभिरद्भिः पुरोडाशँ श्रपयति ८
स्तीर्ण
एव बर्हिषि पिष्टलेपं निनयति ९
शृते पशौ पुरोडाशेन प्रचरति १०
इन्द्रा
ग्निभ्यां पुरोडाशस्यानुब्रूहि ॥ इन्द्रा ग्निभ्यां पुरोडाशस्य
प्रेष्य इति सम्प्रेष्यति ११
अग्नयेऽनुब्रूहि ॥ अग्नये प्रेष्य इति
स्विष्टकृतः १२
उपहूतामिडां मैत्रावरुणषष्ठा ऋत्विजः प्राश्नन्ति
१३
मार्जयन्ते १४
अत्र पशुपुरोडाशस्य पिष्टलेपफलीकरणहोमौ जुहोति १५
कपालानि
विमुञ्चति १६
जुह्वा पृषदाज्यस्योपहत्य त्रिः पृच्छति १७
१७