१६

इन्द्रा ग्निभ्यां छागस्य वपाया मेदसोऽनुब्रूहि इति १
जुह्वामुपस्तीर्य हिरण्य-शकलमवधाय सर्वां वपामवद्यति २
उपरिष्टाद्धिरण्यशकलं निधाया-भिघारयति ३
सा पञ्चावत्ता भवति ४
यद्यपि चतुरवत्ती यजमानः पञ्चावत्तैव वपा भवति ५
यदि हिरण्यं न स्यादाज्यात् प्रत्यवद्येत् ६
अत्याक्रम्याश्राव्याह इन्द्रा ग्निभ्यां छागस्य वपाया मेदसः प्रेष्य इति ७
वषट्कृते जुहोति जातवेदो वपया गच्छ देवान् इत्येतया ८
तत उत्तरं परिवप्यं जुहोति देवेभ्यः स्वाहा इति ९
वपाश्रपणी प्रहरति स्वाहोर्ध्वनभसं मारुतं गच्छतम् इति । प्राचीं द्विशूलां प्रतीचीमेकशूलाम् १०
अथैने सँ स्रावेणाभिजुहोति ११ पशोश्छि-द्र मभिघारयति १२
समुत्क्रम्य सहपत्नीकाश्चात्वाले मार्जयन्ते

इदमापः प्रवहतावद्यं च मलं च यत् ।

यच्चाभिदुद्रो हानृतं यच्च शेपे अभीरुणम् ॥

निर्मा मुञ्चामि शपथान्निर्मा वरुणादुत ।

निर्मा यमस्य पड्वीशात् सर्वस्माद्देवकिल्बिषादथो मनुष्यकिल्बिषात् ॥

आपो मा तस्मादेनसो विश्वान्मुञ्चन्त्वँ हसः ॥

इति १३
हुतायां वपायां वरं ददाति कन्यामलङ्कृतामनड्वाहं तिस्रो वा वत्सतरीः १४
१६