शामित्रे वपां प्रतितपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः इति १
पुनरुल्मुक-मादायाग्नीध्रः पूर्वः प्रतिपद्यते २
एवमध्वर्युराहवनीयमभिप्रव्रजति ३
एवमन्तिमेऽङ्गारे वपां नितँ सयति ४
आहवनीय
आग्नीध्र उल्मुकमपिसृजति ५
अन्तरेण चात्वालोत्करावन्तरेण यूपं
चाहवनीयं च वपामत्याहृत्य दक्षिणत उदङ्ङासीनः प्रतिप्रस्थाताहवनीये वपाँ
श्रपयति ६
अधस्ताद्वपाया बर्हिषो-ऽग्रमपास्यति वायो वीहि स्तोकानाम् इति
७
स्रुवेणाज्यमादायाभिजुहोति त्वामु ते दधिरे हव्यवाहम् इति ८
अभिजुह्वत्
सम्प्रेष्यति स्तोकेभ्योऽनुब्रूहि इति ९
यदा शृता श्येनी भवत्यथैनाँ
सान्नाय्यवदभिघार्य तथोद्वास्य बर्हिषि प्लक्षशाखायामिति
प्रतिष्ठापयति सुपिप्पला ओषधीः कृधि इति १०
प्रयुता द्वेषाँ सि इति
वपाश्रपणीभ्यां प्रमुच्यघृतवतीम् इत्यभिज्ञायोत्तमाय
प्रयाजाया-त्याक्रम्याश्राव्याह
स्वाहाकृतीभ्यः प्रेष्य इति ११
वषट्कृते जुहोति १२
प्रत्याक्रम्य जुह्वा ध्रुवामभिघारयति यद्याज्यभागौ
करिष्यन् भवत्यथ पृष-दाज्यमथ वपाम् । नोपभृतम् १३
तत
आज्यभागाभ्यां प्रचरति यद्याज्यभागौ जुहोति १४
ततः पूर्वं
परिवप्यं जुहोति स्वाहा देवेभ्यः इति १५
ततः सम्प्रेष्यति १६
१५