१४

समुत्क्रम्य सहपत्नीकाश्चात्वाले मार्जयन्ते शुद्धा वयं परिविष्टाः परिवेष्टारो वो भूयास्म इति १
पत्नी पशोः प्राणानाप्याययत्यध्वर्युरभिषिञ्चति २ अध्वर्युरा-प्याययति पत्न्यभिषिञ्चतीत्येकेषाम् ३
वाक् त आ प्यायताम् । प्राणस्त आ प्यायताम् इत्येतैर्मन्त्रैर्यथारूपम् ४
या ते प्राणाञ्छुग् जगाम इति ग्रीवासु निनयति ५
यत् ते क्रूरं यदास्थितम् इति समस्तं पशुमाप्याययति ६
नाभिस्त आ प्यायताम् इति नाभिम् । पायुस्त आ प्यायताम् इति पायुम् । शुद्धाश्चरित्राः इति पादान् ७
शमद्भ्यः शमोषधीभ्यः इत्यवशिष्टा अनुपृष्ठं निनीय दक्षिणेन नाभिं प्रागग्रं बर्हिर्निदधाति ओषधे त्रायस्वैनम् इति ८
स्वधिते मैनँ हि ँसीः इति बर्हिषि स्वधितिना तिरश्चीनमाछ्यति ९
बर्हिषोऽग्रमपयम्य स्थविम-ल्लोहितेनाक्त्वापास्यति रक्षसां भागोऽसि इति १०
अप उपस्पृश्य इषे त्वा इति वपामुत्खिदति ११
देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्व इति प्रयौति १२
घृतेन द्यावापृथिवी प्रोर्ण्वाथाम् इति वपाश्रपणी प्रोर्णोति १३
ऊर्जे त्वा इति तनिष्ठ एकशूलयोपतृणत्ति १४
अच्छिन्नो रायः सुवीरः ॥ इन्द्रा ग्निभ्यां त्वा जुष्टामुत्कृन्तामि इति परिवासयति १५
मुष्टिना शमिता वपोद्धरणमुपसङ्गृ-ह्यास्त आ वपाया होमात् १६
वपाश्रपणी पुनरन्वारभेते अध्वर्युर्यजमानश्च १७ उर्वन्तरिक्षमन्विहि इत्यभिप्रव्रज्य १८
१४