दक्षिणेन शामित्रमन्यतरदुपास्यति समस्य तनुवा भव इति १
तस्मिन् पशुं
प्रत्यञ्चमुदीचीनपादँ सञ्ज्ञपयन्ति २
अमायुं कृण्वन्तँ
सञ्ज्ञपयत इत्युक्त्वा पराङावर्ततेऽध्वर्युः पशोः
सञ्ज्ञप्यमानात् ३
पृषदाज्यमवेक्षमाणावासाते
अध्वर्युर्यजमानश्च
इह प्रजा विश्वरूपा रमन्तामस्मिन् यज्ञे विश्वभृतो जनित्रीः ।
अग्निं कुलायमभिसंवसाना अस्माँ अवन्तु पयसा घृतेन ॥
यासामूधश्चतुर्बिलं मधोः पूर्णं घृतस्य च ।
ता नः पयस्वतीः सन्त्वस्मिन् गोष्ठे वयोवृधः ॥
इति ४
सञ्ज्ञप्ते सञ्ज्ञप्तहोमं जुहोति यत् पशुर्मायुमकृत इति ५
पशोः पाशं
प्रमुञ्चति शमितार उपेतन इति ६
एकशूलया पाश उपतृद्य
चात्वाले-ऽपास्यत्युत्करे वा अदितिः पाशं
प्र मुमोक्तु इति ७
यद्यभिचरेद्दारुँ स्तम्बं वाभिदध्यात् अरातीयन्तमधरं
कृणोमि इति ८
पत्न्यादित्यमुपतिष्ठते नमस्त आतान इति ९
अथैनां
प्राचीमुदानयति अनर्वा प्रेहि इति १०
चात्वाले
पत्न्यपोऽवमृशति आपो देवीः शुद्धायुवः इति ११
१३