१२

पुनः स्वरुमवगूहति १
शमित्रे स्वधितिं प्रयच्छन्नाह एषा तेऽश्रिः प्रज्ञातासत् इति २
ततः सम्प्रेष्यति पर्यग्नये क्रियमाणायानुब्रूहि इति ३
आहवनीया-दुल्मुकमादायाग्नीध्रः पर्यग्नि करोति पशुँ शामित्रदेशं चात्वालं यूपमाहवनीय-माज्यानीति ४ पशुमेव पर्यग्नि करोतीत्येकेषाम् ५
पर्यग्नौ क्रियमाणेऽपाव्यानि जुहोति प्रजानन्तः प्रति गृह्णन्ति पूर्वे इति पञ्च ६
त्रिः परीत्य निधायोल्मुकं त्रिः पुनः प्रतिपर्येति ७
यूपात् पशुं प्रमुच्य वपाश्रपणीभ्यामन्वारभेते अध्वर्यु-र्यजमानश्च ८
अन्वारभ्याश्राव्य सम्प्रेष्यति उपप्रेष्य होतर्हव्या देवेभ्यः इति ९
यत्राभिजानाति प्रास्मा अग्निं भरत इति तदाहवनीयादुल्मुकमादायाग्नीध्रः पूर्वः प्रतिपद्यते १०
अन्तरेण चात्वालोत्कगवुदञ्चं पशुं नयन्ति रेवतीर्यज्ञपतिं प्रियधा विशत इति ११
नाना प्राणो यजमानस्य पशुना इत्यध्वर्युर्यजमानमभिमन्त्रयते १२ उत्तरत आग्नीध्र उल्मुकं निमृद्गाति १३
स शामित्रो भवति १४ अपरस्मा-द्गार्हपत्यादाहरेन्निर्मन्थ्यं वा कुर्यात् १५ याभ्यां बर्हिर्भ्यां पशुमुपाकरोति तयोरन्यतरदाछ्यानार्थं निधाय १६
१२