पुनः स्वरुमवगूहति १
शमित्रे स्वधितिं प्रयच्छन्नाह एषा तेऽश्रिः
प्रज्ञातासत् इति २
ततः सम्प्रेष्यति पर्यग्नये
क्रियमाणायानुब्रूहि इति ३
आहवनीया-दुल्मुकमादायाग्नीध्रः
पर्यग्नि करोति पशुँ शामित्रदेशं चात्वालं यूपमाहवनीय-माज्यानीति ४
पशुमेव पर्यग्नि करोतीत्येकेषाम् ५
पर्यग्नौ
क्रियमाणेऽपाव्यानि जुहोति प्रजानन्तः
प्रति गृह्णन्ति पूर्वे इति पञ्च ६
त्रिः परीत्य निधायोल्मुकं त्रिः पुनः
प्रतिपर्येति ७
यूपात् पशुं प्रमुच्य वपाश्रपणीभ्यामन्वारभेते
अध्वर्यु-र्यजमानश्च ८
अन्वारभ्याश्राव्य सम्प्रेष्यति
उपप्रेष्य होतर्हव्या देवेभ्यः इति ९
यत्राभिजानाति प्रास्मा
अग्निं भरत इति तदाहवनीयादुल्मुकमादायाग्नीध्रः पूर्वः प्रतिपद्यते
१०
अन्तरेण चात्वालोत्कगवुदञ्चं पशुं नयन्ति रेवतीर्यज्ञपतिं प्रियधा विशत
इति ११
नाना प्राणो यजमानस्य पशुना इत्यध्वर्युर्यजमानमभिमन्त्रयते १२
उत्तरत आग्नीध्र उल्मुकं निमृद्गाति १३
स शामित्रो भवति १४
अपरस्मा-द्गार्हपत्यादाहरेन्निर्मन्थ्यं वा कुर्यात् १५
याभ्यां बर्हिर्भ्यां पशुमुपाकरोति तयोरन्यतरदाछ्यानार्थं निधाय १६
१२