११

ततः सम्प्रेष्यति अग्नये समिध्यमानायानुब्रूहि इति १
समानमा ध्रुवासमञ्जनात् २
पुरस्ताद् ध्रुवासमञ्जनात् पशुँ समनक्ति । सं ते प्राणो वायुना गच्छताम् इति शिरसि । सं यजत्रैरङ्गानि इत्यँ सयोः । सं य्ज्ञपतिराशिषा इति श्रोण्योः ३
समानमा प्रवरात् ४
प्राकृतेन वरणेन होतारं वृत्वा पुनराश्राव्य मैत्रावरुणं प्रवृणीते मित्रावरुणौ प्रशास्तारौ प्रशास्त्रात् इति ५
समानमा प्रयाजेभ्यः ६ जुहूपभृतावादायात्याक्रम्याश्राव्याह समिद्भ्यः प्रेष्य इति ७ वषट्कृते जुहोति ८
आश्राव्याश्राव्य प्रेष्य प्रेष्य इत्येवोत्तरेभ्यः सम्प्रेष्यति ९
चतुर्थेचतुर्थ औपभृतँ समानयते १०
सर्वमष्टमे ११
दश प्रयाजानिष्ट्वैकादशायाज्यमवशिनष्टि १२
प्रत्याक्रम्य जुह्वा स्वरुस्वधिती अनक्ति । त्रिः स्वरुँ सकृत् स्वधितेरन्यतरां धाराम् १३
ताभ्यां पशुँ समनक्ति घृतेनाक्तौ पशुं त्रायेथाम् इति १४ याक्ता धारा तया पशुँ समनक्ति १५
तयैव हविषः शृतस्यावद्यतीतरया विशास्ति १६ याथाकामी विशसन इत्यपरम् १७
११