ततः सम्प्रेष्यति अग्नये समिध्यमानायानुब्रूहि इति १
समानमा ध्रुवासमञ्जनात्
२
पुरस्ताद् ध्रुवासमञ्जनात् पशुँ समनक्ति । सं ते प्राणो वायुना गच्छताम्
इति शिरसि । सं यजत्रैरङ्गानि इत्यँ सयोः । सं य्ज्ञपतिराशिषा इति
श्रोण्योः ३
समानमा प्रवरात् ४
प्राकृतेन वरणेन होतारं
वृत्वा पुनराश्राव्य मैत्रावरुणं प्रवृणीते मित्रावरुणौ
प्रशास्तारौ प्रशास्त्रात् इति ५
समानमा प्रयाजेभ्यः ६
जुहूपभृतावादायात्याक्रम्याश्राव्याह समिद्भ्यः प्रेष्य इति ७
वषट्कृते जुहोति ८
आश्राव्याश्राव्य प्रेष्य प्रेष्य इत्येवोत्तरेभ्यः
सम्प्रेष्यति ९
चतुर्थेचतुर्थ औपभृतँ समानयते १०
सर्वमष्टमे ११
दश
प्रयाजानिष्ट्वैकादशायाज्यमवशिनष्टि १२
प्रत्याक्रम्य जुह्वा
स्वरुस्वधिती अनक्ति । त्रिः स्वरुँ सकृत् स्वधितेरन्यतरां
धाराम् १३
ताभ्यां पशुँ समनक्ति घृतेनाक्तौ पशुं त्रायेथाम् इति १४
याक्ता धारा तया पशुँ समनक्ति १५
तयैव हविषः शृतस्यावद्यतीतरया विशास्ति १६
याथाकामी विशसन इत्यपरम् १७
११