अग्नये मथ्यमानायानुब्रूहि इति १
त्रिरनूक्तायां प्रथमायां प्रदक्षिणं
त्रिर्मन्थति गायत्रं छन्दोऽनु प्र जायस्व इत्येतैर्मन्त्रैः २
जात आह जातायानुब्रूहि इति ३
प्रहरिष्यन् प्रह्रियमाणायानुब्रूहि इति ४
यत्राभिजानाति प्र देवं देववीतये इति तदग्रेणोत्तरं परिधिमनुप्रहरति सन्धिना
वा भवतं नः समनसौ इति ५
स्रुवेणाज्यमादायाभिजुहोति अग्नावग्निश्चरति
प्रविष्टः इत्येतया ६
सावित्रेण रशनामादाय पशोः पाशेन
दक्षिणमर्धशीर्षमभिदधाति ऋतस्य त्वा देवहविः पाशेना रभे इति
७
अथैनं पुरस्तात्प्रत्यञ्चं यूपे नियुनक्ति धर्षा मानुषानिन्द्रा
-ग्निभ्यां त्वा जुष्टं नियुनज्मि इति ८
येऽर्वाचीनमेकादशिन्याः पशव
आलभ्यन्ते तानुत्तरतो यूपस्य नियुनक्ति दक्षिणत एकादशिनान् ९
अथैनमुपरिष्टात् प्रोक्षति अद्भ्यस्त्वौपधीभ्य इन्द्रा
ग्निभ्यां त्वा जुष्टं प्रोक्षामि इति १०
पाययति अपां पेरुरसि इति ११
अधस्तादुपोक्षति स्वात्तं चित् सदेवँ हव्यमापो देवीः स्वदतैनम्
इति १२
१०