०९

परिवीयमाणायानुब्रूहि इति १
नाभिदघ्ने मध्यदेशे वा त्रिगुणया प्रदक्षिणं त्रिः परिव्ययति परिवीरसि परि त्वा दैवीर्विशो व्ययन्ताम् इति २ उत्तरमुत्तरं गुणमुत्तमं करोति ३
उपान्ते रशनां व्यतिषज्यान्तं प्रवेष्टयति ४
समावन्तौ कृत्वाणिमति स्थविमत् प्रवयति दिवः सूनुरसि इति ५
स्वरुमादाय मध्यमे रशनागुणेऽवगूहत्युत्तमे सर्वेषु वा अन्तरिक्षस्य त्वा सानावव गूहामि इति ६
अथैनं पशुँ स्नापयन्ति अनङ्गहीनमपन्नदन्तमजं लोहं तूपरं द्विरूपं पीवानम् ७
इषे त्वा इति बर्हिषी आदत्ते ८
उपवीरसि इति प्लक्षशाखाम् ९
या बहुपर्णा बहुशाखा तयोपाकुर्यात् पशुकामस्य १०
अग्रेण यूपं पुरस्तात्प्रत्यञ्चँ शाखया बर्हिर्भ्यां पशुमुपाकरोति । प्रजापतेर्जायमानाः इति द्वाभ्याम् । उपो देवान् दैवीर्विशः इति प्रतिपद्य रेवती रमध्वमिन्द्रा ग्निभ्यां त्वा जुष्टमुपाकरोमि इत्यन्तेन ११
अग्नेर्जनित्रमसि इत्यधिमन्थनशकलं निदधाति । वृषणौ स्थः इति प्राञ्चौ दर्भौ १२
उर्वश्यसि इत्यधरारणिमादत्ते । पुरूरवाः इत्युत्तरारणिम् १३
घृतेनाक्ते वृषणं दधाथाम् इत्याज्यस्थाल्या बिलेऽनक्ति १४
आयुरसि इत्यरणी समवधाय सम्प्रेष्यति १५