ततः सम्प्रेष्यति यूपायाज्यमानायानुब्रूहि इति १
देवस्त्वा सविता मध्वानक्तु
इति यूपस्याग्रमनक्ति २
ऐन्द्र मसि इति सर्वतश्चषालमक्त्वा प्रतिमुञ्चति
सुपि-प्पलाभ्यस्त्वौषधीभ्यः इत्यमुतोऽर्वाक् ३
यजमानो
यूपशकलेनान्तमनक्ति सर्वतः परिमृशन् ४
रशनायाः काले त्रिः परिमृशति ५
आञ्जनप्रभृति यूपं यजमानो
नोत्सृजत्या परिव्ययणात् ६
ततः सम्प्रेष्यति
उच्छ्रीयमाणायानुब्रूहि इति ७
उच्छ्रयति उद्दिवँ स्तभानान्तरिक्षं पृण इति ८
ते ते
धामान्युश्मसी गमध्ये इत्यवटेऽवदधाति ९
अथैनं कल्पयति
विष्णोः कर्माणि पश्यत इति द्वाभ्याम् १०
अग्नेरर्धं प्रत्युपनतं यूपस्य
कुर्याद्बहिष्टान्निनतम् ११
अनाविरुपरं मिनोति १२
तं
प्रत्यग्निमग्निष्ठां मित्वा
प्रदक्षिणं पुरीषेण पर्यूहति ब्रह्मवनिं त्वा क्षत्रवनिम् इति १३
मैत्रावरुणदण्डेन परिदृँ हति ब्रह्म दृँ ह क्षत्रं दृँ ह इति १४
उन्नम्भय
पृथिवीम् इत्यपोऽनुपरिषिच्य इदं विष्णुर्वि चक्रमे इति सरशनेन पाणिना
यूपमुन्मार्ष्टि १५
तद्विष्णोः परमं पदम् इति यूपस्याग्रमुदीक्षते १६
दर्भमय्यौ रशने भवतः । द्विगुणा द्विव्यायामा त्रिगुणा त्रिव्यायामा १७
ततः सम्प्रेष्यति १८
८