०६

अत्र बर्हिरादि कर्म प्रतिपद्यते यदि पूर्वेद्युरग्निं प्रणयेत् । अथ यदि प्रोक्षान्तां परिवसेत् तदानीमेव बर्हिरादि कर्म प्रतिपद्यते १ इक्षुशलाके विधृती आश्ववालं प्रस्तरम् बर्हिष्युपसन्नह्यति २
कार्ष्मर्यमयान् परिधीनिध्मे ३
त्रयो-विँ शतिदारुमिध्मं करोति ४
समानमा पात्राणां प्रयोजनात् ५
वसाहोमहवनीं द्वितीयां जुहूं प्रयुनक्ति पृषदाज्यधानीं द्वितीयामुपभृतं द्वे आज्यस्थाल्यौ कुम्भीं पशुश्रपणीं कार्ष्मर्यमय्यौ वपाश्रपण्यौ द्विशूलामेकशूलां च हृदयशूलँ स्वरुँ स्वधितिँ रशने प्लक्षशाखामौदुम्बरं मैत्रावरुणदण्डं येन चार्थी भवति ६
तत्र य उपभृतो धर्मा ये च ध्रुवायाः पृषदाज्यधान्यामपि क्रियेरन् ७
ये सान्नाय्य उखायाः पशुश्रपण्यां वपाश्रपण्योर्हृदयशूले प्लक्षशाखायामिति क्रियेरन् ८
स्रुवधर्माः स्वधितौ पयोधर्माः पशौ ९
न प्रणीताः प्रणयति १०
अग्नीन् परिस्तीर्य हस्ताववनिज्य पात्राणि प्रयुज्योलपराजी ँस्तीर्त्वा पवित्रे कृत्वा सम्प्रेष्यति यजमान वाचं यच्छ इति ११
वाग्यतः पात्राणि सम्मृशति १२
प्रोक्षणीनामावृता प्रोक्षणीः सँ स्कृत्य ब्रह्माणमामन्त्र्य पात्राणि प्रोक्ष्य हविष्कृता वाचं विसृज्य तत उत्तरं परिग्राहं परिगृह्णाति १३
समानमा सम्प्रैषात् १४ ६