भूतेभ्यस्त्वा इति स्रुचमुद्गृह्याभित उत्तरवेदिं पौतुद्र वान् परिधीन्
परिदधाति । विश्वायुरसि इति मध्यमम् । ध्रुवक्षिदसि इति दक्षिणम् ।
अच्युतक्षिदसि इत्युत्तरम् १
नाभ्याँ सम्भारान् निवपति गुल्गुलु
सुगन्धितेजनँ श्वेतामूर्णास्तुकां या
पेत्वस्यान्तरा शृङ्गे श्वेतस्याच्छिन्नस्तुकस्य
। नाच्छिन्नस्तुकरयेत्येकेषाम् । अग्नेर्भस्मासि । अग्नेः पुरीषमसि इति २
एतेनैवोत्तरत उपयमनीर्निवपति ३
यत्राभिजानाति सीद होतः स्व उ लोके इति
तत् सम्भारेष्वग्निं प्रतिष्ठापयति
यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा वसूनि पुरुधा विशन्तु ।
दीर्घमायुर्यजमानाय कृण्वन्नधामृतेन जरितारमङ्धि ॥
इति ४
निधायोपसमिन्द्धे यज्ञः प्रत्यष्ठात् ॥ मनुष्वत् त्वा निधीमहि
मनुष्वत् समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान् देवायते यज
इति ५
अत्र सप्तवत्या पूर्णाहुतिँ हुत्वातिमुक्तीर्जुहोति
अग्निर्यज्ञं नयतु प्रजानन् मैनं यज्ञहनो विदन् ।
देवेभ्यो यज्ञं प्रब्रूतात् प्रप्र यज्ञपतिं तिर स्वाहा ॥
वायुरादित्यो यज्ञो यज्ञं नयतु प्रजानन् मैनं यज्ञहनो विदन् ।
देवेभ्यो यज्ञं प्रब्रूतात् प्रप्र यज्ञपतिं तिर स्वाहा ॥
इति ६
अत्र पूर्णाहुतिमेके समामनन्ति ७
५