०५

भूतेभ्यस्त्वा इति स्रुचमुद्गृह्याभित उत्तरवेदिं पौतुद्र वान् परिधीन् परिदधाति । विश्वायुरसि इति मध्यमम् । ध्रुवक्षिदसि इति दक्षिणम् । अच्युतक्षिदसि इत्युत्तरम् १
नाभ्याँ सम्भारान् निवपति गुल्गुलु सुगन्धितेजनँ श्वेतामूर्णास्तुकां या पेत्वस्यान्तरा शृङ्गे श्वेतस्याच्छिन्नस्तुकस्य । नाच्छिन्नस्तुकरयेत्येकेषाम् । अग्नेर्भस्मासि । अग्नेः पुरीषमसि इति २ एतेनैवोत्तरत उपयमनीर्निवपति ३
यत्राभिजानाति सीद होतः स्व उ लोके इति तत् सम्भारेष्वग्निं प्रतिष्ठापयति

यज्ञ प्रतितिष्ठ सुमतौ सुशेवा आ त्वा वसूनि पुरुधा विशन्तु ।

दीर्घमायुर्यजमानाय कृण्वन्नधामृतेन जरितारमङ्धि ॥

इति ४
निधायोपसमिन्द्धे यज्ञः प्रत्यष्ठात् ॥ मनुष्वत् त्वा निधीमहि मनुष्वत् समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान् देवायते यज इति ५
अत्र सप्तवत्या पूर्णाहुतिँ हुत्वातिमुक्तीर्जुहोति

अग्निर्यज्ञं नयतु प्रजानन् मैनं यज्ञहनो विदन् ।

देवेभ्यो यज्ञं प्रब्रूतात् प्रप्र यज्ञपतिं तिर स्वाहा ॥

वायुरादित्यो यज्ञो यज्ञं नयतु प्रजानन् मैनं यज्ञहनो विदन् ।

देवेभ्यो यज्ञं प्रब्रूतात् प्रप्र यज्ञपतिं तिर स्वाहा ॥

इति ६
अत्र पूर्णाहुतिमेके समामनन्ति ७