वेदिमुत्तरवेदिं च सम्मृशति
चतुःशिखण्डे युवती कनीने घृतप्रतीके भुवनस्य मध्ये ।
तयोर्देवा अधिसंवसन्त उत्तमे नाक इह मादयन्ताम् ।
इति १
अथैनं प्रतिदिशं परिक्रामं प्रोक्षति इन्द्र घोषस्त्वा वसुभिः
पुरस्तात् पातु इत्येतैर्मन्त्रैर्यथारूपम् २
त्वष्टा त्वा
रूपैरुपरिष्टात् पातु इत्युपरिष्टात् ३
यत् प्रोक्षणीनामुच्छिष्येतेति
समानम् ४
पूर्वेद्युरग्निं प्रणयेदित्येकं प्रोक्षान्तां
परि-वसेदित्यपरम् ५
आहवनीय इध्ममादीप्य
सम्प्रेष्यति अग्नये प्रणीयमाना-यानुब्रूहि इति ६
त्रिरनूक्तायां
प्रथमायामिध्ममादाय सिकता उपयमनीः कृत्वोद्यतहोमं जुहोति
यत् ते पावक चकृमा कच्चिदागः पूर्वं सन्नपरो यद्भवासि ।
घृतेन त्वं तनुवो वर्धयस्व मा मा हिँ सीरधिगतं पुरस्तात् स्वाहा ॥
इति ७
शेषे हुत्वा प्राञ्चोऽभिप्रव्रजन्ति ८
उपर्यग्नौ धार्यमाणे
पञ्चगृहीतेनाज्येन हिरण्यमन्तर्धायाक्ष्णयोत्तरवेदिं
व्याघारयति । सिँ हीरसि सपत्नसाही स्वाहा इति दक्षिणे ँऽसे । सि ँ!
हीरसि सुप्रजावनिः स्वाहा इत्युत्तरस्याँ श्रोण्याम् । सि ँहीरसि
रायस्पोषवनिः स्वाहा इत्युत्तरे ँऽसे । सि ँ!
हीरस्यादित्यवनिः स्वाहा इति दक्षिणस्याँ श्रोण्याम्
। सि ँहीरस्यावह देवान् देवयते यजमानाय स्वाहा इति मध्ये ९
४