०३

पुरस्तादुदीचीनकुम्बाँ शम्यां निधाय स्फ्येनाभ्यन्तरमुदीचीं लेखां लिखति वित्तायनी मेऽसि इति । एवं दक्षिणतः प्राचीम् तिक्तायनी मेऽसि इति । एवं पश्चादुदीचीम् अवतान्मा नाथितम् इति । एवमुत्तरतः प्राचीम् अवतान्मा व्यथितम् इति १
उत्तरस्माद्वेद्यँ सादुदञ्चं प्रक्रमं प्रक्रम्य तथैव शम्यया तूष्णीं चात्वालं परिमिमीते २
सावित्रेणाभ्रिमादाय य्परिलिखति परिलिखितँ रक्षः परिलिखिता अरातयः इति ३ जानुदघ्नं खात्वा त्रिवितस्तं वा पुरीषँ हरति विदेरग्निः इति ४ उत्तरवेद्यां निवपति सिँ हीरसि महिषीरसि इति ५
एवमेव द्वितीयँ हरत्येवं तृतीयम् । यो द्वितीयस्याम् इति द्वितीयँ हरति । यस्तृतीयस्याम् इति तृतीयम् ६
तूष्णीं चतुर्थ ँहृत्वा शम्यामात्रीं प्रथयति उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् इति ७
ध्रुवासि इति सँ हत्याद्भिरवोक्षति देवेभ्यः शुन्धस्व इति ८
यत् प्रोक्षणीनामुच्छिष्येत् तद्दक्षिणत उत्तरवेद्या-मेकस्फ्यां निःसार्योपनिनयेत् आपो रिप्रं निर्वहत इति ९
यं द्विष्यात् तं ध्यायेत् १०
सिकताः प्रकिरति देवेभ्यः शम्भस्व इति ११
उत्तरवेद्या अन्तान् कल्पयति

विभ्राड् बृहत् पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् ।

वातजूतो योउ अभिरक्षतु त्मना प्रजाः पिपर्ति बहुधा विराजति ॥

इति १२
मध्य उत्तरवेदेः प्रादेशमात्रीं चतुःस्रक्तिमुत्तरनाभिं कृत्वा १३