०२

अथैनं प्राञ्चं प्रवाहयत्युदञ्चं वा दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन मा हिँ सीः इति १
वनस्पते शतवल्शो वि रोह इत्याव्रश्चने जुहोति २
सहस्रवल्शा वि वयँ रुहेम इत्यात्मानं प्रत्यभिमृशति ३
अन्वग्रमद्गान् कल्पयति यं त्वायँ स्वधितिस्तेतिजानः इति ४
एतेनैवाग्रतः परिवासयति ५ एकारत्निप्रभृतीनि प्रमाणान्या त्रयस्त्रिँ शदरत्नेर्भवन्ति ६
त्र्यरत्निर्वैव चतुररत्निर्वा पालाशो निरूढ-पशुबन्धयूपोऽथेतरे सौम्यस्याध्वरस्येत्येकेषाम् ७
अथैनं नातिस्थूलं नात्य-णुमग्रेऽणीयाँ समष्टाश्रिं करोति ८
मूलत उपरमतष्टं भवति ९
अग्रतश्चषालं पृथमात्रमष्टाश्रिं मध्ये सन्नतम् १० यावदुत्तममड्गुलिकाण्डं तावदूर्ध्वं चषा-लाद्यूपस्यातिरेचयति । द्व्यङ्गुलमित्येकेषां त्र्! यङ्गुलमित्येकेषाम् ११
अवतक्ष-णानाँ स्वरुं कृत्वाग्नावैष्णवमेकादशकपालं निर्वपति १२ सप्तदश सामि-धेन्यो भवन्ति १३
सिद्धमिष्टिः सन्तिष्ठते १४ सैषाग्न्यन्वाधानस्य स्थानं प्रत्येति १५
न पश्विष्ट्यामग्निं गृह्णीयादित्यपरम् १६
तस्याँ सँ स्थितायाँ शाखामाहृत्याग्रेणाहवनीयं वेदिं करोति १७
रथेषामात्री प्राची भवति युगमात्री पुरस्तादक्षमात्री पश्चात् १८
यत् प्रागुत्तरस्मात् परिग्राहात् तत् कृत्वा-परेण यूपावटदेशँ शम्ययोत्तरवेदिं परिमिमीते १९