०१

पशुबन्धेन यक्ष्यमाणः षड्ढोतारं मनसानुद्रुत्याहवनीये सग्रहं जुहोति १ स्रुवेण यूपाहुतिं जुहोति उरु विष्णो विक्रमस्व इत्येतया २
यत् स्थाल्यामाज्यं परिशिष्टं तच्च स्रुवं चाध्वर्युरादत्ते । यत् तक्षणशस्त्रं तत् तक्षा ३
यस्यां दिशि यूपमेशिष्यन्तो भवन्ति तां दिशं यन्ति ४
त एते यूप्या वृक्षाः पलाशः खदिरो रौहितक इति ५
बैल्वं ब्रह्मवर्चसकामः कुर्वीत ६
स नित्यकामः ७
अनक्षसङ्गं वृश्चेत् ८
यं क्जामयेताप्रतिष्ठितः स्यादित्यारोहं तस्मै वृश्चेत् । यं कामयेतापशुः स्यादित्यपर्णं तस्मै शुष्काग्रं वृश्चेत् । यं कामयेत पशुमान् स्यादिति बहुपर्णं तस्मै बहुशाखं वृश्चेत् । प्रतिष्ठितं वृश्चेत् प्रतिष्ठाकामस्येति विज्ञायते ९
यो दक्षिणावृन्न तं वृश्चेत् । य उदङ्ङावृन्न तम् । न घूर्णम् । य ऋजुरूर्ध्वशल्को यस्यर्जोः सत ईषदग्रमुपावनतं तं वृश्चेत् । यः प्राङ् वा प्रत्यङ् वोदङ् वोपावनतस्तम् १०
उपस्पृश्य जपति अत्यन्यानगाम् इति ११ स्रुवेणाज्यमादाय पर्यणक्ति देवस्त्वा सविता मध्वानक्तु इति १२
ओषधे त्रायस्वैनम् इत्योषधिमन्तर्दधाति १३
स्वधिते मैनँ हिँ सीः इति परशुना हन्ति १४
यः प्रथमः शकलः परापतेत् तमपयम्य जानुदघ्ने गुल्फदघ्ने वा वृश्चति १५