अथ यदि नानातन्त्रँ श्यामाकं कुर्याच्छयामाकेषु पक्वेषु सौम्यँ श्यामाकं
चरुं निर्वपेत् १
तस्यैष एव कल्पः २
एतावन्नाना । वासो दक्षिणां
ददाति ३
सिद्धमिष्टिः सन्तिष्ठते ४
यवानामग्रपाकस्य यजते ५
तेषां
व्रीहिभिरेव कल्पो व्याख्यातः ६
एतावन्नाना
एतमु त्यं मधुना संयुतं यवँ सरस्वत्या अधिमनावचर्क्रुशुः ।
इन्द्र आसीत् सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानवः ॥
इति यवानां प्राश्नाति ७
य ऊर्ध्वमेकाष्टकाया वत्सा जायन्ते तेषां प्रथमजं
दक्षिणां ददाति ८
सिद्धमिष्टिः सन्तिष्ठते ९
नवैरेवामावास्यां पौर्णमासीं
वा यजेत १०
नवैर्वाग्निहोत्रं जुहुयात् ११
अग्निहोत्रीं वा नवानादयित्वा
तस्याः पयसा सायं प्रातर्जुहुयात् १२
अपि वा गार्हपत्ये चतुःशरावमोदनं
पक्त्वा-ग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थीभ्यां हुत्वा ब्राह्मणान्
भोजयेत् १३
हरितयव-शमीधान्यशाकानामनिष्टेऽपि याथाकामी १४
दानप्रसवानि
मूलपलाशकानि १५
व्रीहिभिरिष्ट्वा व्रीहिभिरेव यजेता यवेभ्यः ।
यवैरिष्ट्वा यवैरेव यजेता व्रीहिभ्यः । अपि वा व्रीहिभिरेव यजेत
१६
एवमेव सस्येसस्ये यावज्जीवं यजते यावज्जीवं यजते १७
१८
इति षष्ठः प्रश्नः