आदित एव हविष्कृतमाह्वयति १
सर्वाण्यवहत्य वाचं विसृजते २
सर्वेषामन्ततस्तुषानुपवपति ३
आ
तन्त्रीभावादेकैकं बीजमपवर्जयेत् ४
अपि वा
समानजातीयेनानुसमीयात् ५
एष एवात ऊर्ध्वं
नानाबीजानां कल्पो भवति ६
समानमा हविषामुद्वासनात् ७
एककपालमुद्वास्याज्येनाभिपूरयति ८
तस्य
वैश्वदेविकेनैककपालेन कल्पो व्याख्यातः ९
एतावन्नाना
। नाविः-पृष्ठं करोति न मासनामभिरभिजुहोति १०
समानमा हविषां प्रदानात् ११
वैश्वदेवँ हुतमनुमन्त्रयते विश्वेषां देवानामहं देवयज्यया प्राणैः
सायुज्यं गमेयम् इति १२
द्यावापृथिव्यँ हुतमनुमन्त्रयते
द्यावापृथिव्योरहं देवयज्यया भूमानं प्रतिष्ठां गमेयम्
इति १३
एवमेव सर्वान् वैश्वदेवान् द्यावापृथिव्यानित्यनु-मन्त्रयते १४
समानमा प्राशनात् १५
भद्रा न् नः श्रेयः समनैष्ट देवाः इति व्रीहीणां
प्राश्नाति १६
अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः ।
शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिः ॥
इति श्यामाकानाम् १७
सर्वे मन्त्रेण प्राश्नीयुरित्येकम् । यजमान एव
यजमानभागमित्यपरम् १८
ये प्रागेकाष्टकाया वत्सा जायन्ते
तेषां प्रथमजं दक्षिणां ददाति १९
सिद्धमिष्टिः सन्तिष्ठते २०
१७