विकृतिश्च दर्शपूर्णमासौ च १
दर्शपूर्णमासयोर्विकृतेश्च सन्निपाते
दर्शपूर्णमासौ बलीयाँ सौ २
यानि त्विष्टिपशुबन्धानां
प्रत्यक्षश्रुताम्नातानि तत्र बलीयाँ सि ३
त्रयोविँ शतिदारुमिध्मं
करोति ४
तत्रैषोऽत्यन्तप्रदेशः । सामिधेनीविवृद्धौ काष्ठानि
विवर्धेरन् प्रतिह्वसमानासु यथाप्रकृति ५
समानमा पात्राणां
प्रयो-जनात् ६
त्रीणि शूर्पाणि प्रयुनक्ति ७
त्रीण्युलूखलान्यधिवर्तयति द्वे
दृषदौ ८
समानमा शूर्पस्यादानात् ९
वेषाय वः इति शूर्पाण्यादत्ते १०
समानमा निर्वपणात् ११
आग्नेयमष्टाकपालं पुराणानां निरुप्यैन्द्रा
ग्नमेकादशकपालं नवानां निर्वपति १२
द्वादशकपालमाग्नेन्द्रं वा १३
वैश्वदेवं चरुं । पयसि शृतो भवति १४
सौम्यँ श्यामाकं चरुं
द्यावापृथिव्यमेककपालम् १५
अपि वा नवान्येन निर्वपेत् ।
नाग्नेयम् १६
तन्त्रं प्रत्यभिमर्शनमन्त्रो भवति १७
आग्रयणं निरुप्यैता आहुतीर्जुहोति शतायुधाय शतवीर्याय इति पञ्च
१८
समानमा कृष्णाजिनास्तरणात् १९
एकस्मिन् कृष्णाजिने
त्रीण्युलूखलान्य-धिवर्तयति द्वे दृषदौ २०
समानमावपनात् २१
सर्वाणि हवी ँष्योओप्य हविष्कृतमाह्वयति २२
सर्वाण्यवहत्य दृषदुपले समाहन्ति २३
अनुपूर्व ँ!
सर्वाणि हवी ँष्युद्वपति निष्पुनाति विविनक्ति २४
अपि
वैकस्मिन्नेवोलूखले पूर्वापरमवहन्यात् २५
तत्रावपनप्रभृतयो विवेचनान्ता मन्त्रा बीजम्बीजमभ्या-वर्तेरन् २६
१६