१५

आग्रयणं व्याख्यास्यामः १
व्रीहीणामग्रपाकस्य यजते २
सप्तदश सामिधेन्यो भवन्ति ३
आमावास्यं तन्त्रं भवति ४
तत्रैषोऽत्यन्तप्रदेशः । सर्वेष्विष्टि-पशुबन्धेषु दार्शपौर्णमासिका धर्मा अनुयन्ति ५ त्रयेणापि निवर्तन्ते सिद्ध्या प्रतिषेधेन प्रत्याम्नायेनेति ६
तद् यत्र प्राकृतस्य यज्ञाङ्गस्य स्थाने वैकृतमामनेत् तत् तस्य धर्मान् लभेत । यथा शरमयं बर्हिर्बर्हिषः श्यामाका व्रीहीणाँ स्थाली कपालस्य चरुः पुरोडाशस्येति ७
तत्र यथार्थमूहो भवति ८
सामान्याद् विकारः यथैकदेवता आग्नेयस्य । द्विदेवतो बहुदेवत इत्यग्नीषोमीयस्यैन्द्रा -ग्नस्य वा ९ अन्यत्र प्रकृतिदेवताभ्यः । यथैन्द्र ःपुरोडाशः सौम्यश्चरुरिति १०
स्वयमेव स्थानं प्राकृत्यः प्रतीयुः ११
अथ यत्र प्राकृत्यै देवताया अन्यद्धवि-रामनेद् यथा वैष्णवं पुरोडाशँ हविरेव स्वधर्म ँस्यात् १२
यदीष्ट्या यदि पशुना यदि सोमेन यजेतामावास्यायां वैव पौर्णमास्यां वा यजेत १३
तत्र सिद्धं द्वे पर्वे १४
पूर्वस्यां पर्व निधायोत्तरस्यामिष्ट्या यजेत १५
अथैकपर्वे सँ स्थाप्य पर्व सद्यस्कालमिष्टिं निर्वपति १६
समानतन्त्रे वा १७
१५