अद्भिः स्रुचं पूरयित्वापरेणाहवनीयं निनयति पृथिव्यां त्वाग्नौ
वैश्वानरेऽमृतं जुहोमि स्वाहा इति १
एवमेवापरेण
गार्हपत्यं निनयति २
पत्न्या अप्य-ञ्जलावानयति गृहेभ्यस्त्वा गृहान्
जिन्व इति विग्राहं कनीयोऽग्रेऽथ भूयः ३
यदि पत्नी नानुष्यात्
पृथिव्यामेव द्विर्निनयेत् ४
एतस्मादेवाग्निहोत्रशेषाद्
द्विश्चतुर्वा स्रुवेण गार्हपत्ये जुहोति अग्ने गृहपते परिपद्य जुषस्व
स्वाहा इति ५
अन्नपतेऽन्नस्य नो देहि इत्यन्वाहार्यपचने ६
नापरयोर्होमो विद्यत इत्यपरम् ७
हुत्वोपसमिन्द्धे
दीदिहि दीदिदासि दीदाय इत्येकैकम् ८
व्याख्यातं परिसमूहनं
परिषेचनमिति ९
द्वयोः पयसा पशुकामस्याग्निहोत्रं
जुहुयात् १०
पूर्वमधिश्रित्योत्तरमानयेत् ११
आज्येन जुहुयात्
तेजस्कामस्य पयसा पशु-कामस्य १२
पयो नित्यवदेके समामनन्ति १३
दध्नेन्द्रि यकामस्य यवाग्वा ग्रामकामस्य तण्डुलैरोजस्कामस्य माँ सेन
यशस्कामस्य सोमेन ब्रह्म-वर्चसकामस्य १४
घृतेन ब्रह्मवर्चसकामो
द्वादशरात्रं जुहुयात् १५
आज्येन जुह्वत एष एव कल्पः ।
एतावन्नाना । अपां प्रत्यसनकाले दर्भतरुणाभ्यां प्रत्यस्येत् १६
अथ
यदि दध्ना तण्डुलैः सोमेन वा जुहुयाद् यदन्यदधिश्रयणात् प्रतिषेचनादिति
सर्वं तत् क्रियते १७
एवंविहितमग्निहोत्रं यावज्जीवं जुहुयाद्
यावज्जीवं जुहुयात् १८
१४