भूयो भक्षायावशिनष्टि १
रुद्र मृडानार्भव मृड धूर्त नमस्ते अस्तु मा मा हिँ
सीः इति त्रिः स्रुचाग्निमतिमार्जयति २
उदगुद्दिशति ३
तथैव लेपमवमृज्य
प्रजां मे यच्छ इत्युपसाद्य प्राचीनावीती दक्षिणतः स्थण्डिले
लेपं निमार्ष्टि पितृभ्यस्त्वा पितॄन् जिन्व इति ४
अप उपस्पृश्य
द्विरङ्गुल्या प्राश्नात्यशब्दं कुर्वन् पूषासि इति प्रथमम् ५
अप
आचम्य गर्भेभ्यस्त्वा गर्भान् जिन्व इति द्वितीयम् ६
द दतो गमयति ७
बर्हिषोपयम्योदङ् पर्यावृत्य प्राचीनदण्डयो-दीचीनदण्डया वा स्रुचाचामति
आग्नेयँ रेतः प्रजननं मे अस्तु इति सायम् । सौर्य ँरेतः प्रजननं
मे अस्तु इति प्रातः ८
उपनिष्क्रम्याग्निहोत्रहवणीं मार्जयित्वा बर्हिषि
लेपं निमार्ष्टि ९
अद्भिः स्रुचं पूरयित्वा प्राङ् निनयति
सर्पेभ्यस्त्वा सर्पान् जिन्व इति प्रथमम् । सर्पान्
पिपीलिकान् जिन्व इति द्वितीयम् । सर्पेतरजनान् जिन्व इति तृतीयम् १०
प्रदक्षिणमावर्तते ११
न बर्हिर-नुप्रहरत्याहवनीये १२
अग्निहोत्रहवणीं निष्टपति प्रत्युष्टँ रक्षः
प्रत्युष्टा अरातयः इति १३
तस्याँ हस्तमवदधाति १४
हस्तं वा प्रताप्याग्निहोत्रहवण्योदगुद्दिशति सप्तर्षिभ्यस्त्वा
सप्तर्षीन् जिन्व इति १५
१३